(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.108. अध्यायः 108
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मातृपितृगुरुमहिमानुवर्णनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच 12-108-0x(5624)(68984)
महानयं धर्मपथो बहुशाखश्च भारत।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्॥ 12-108-1(68985)
किं कार्यं सर्वभूतानां गरीयो भवतो मतम्।
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम्॥ 12-108-2(68986)
भीष्म उवाच। 12-108-3x(5625)
मातापित्रोर्गुरूणां च पूजा बहुमता मम।
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते॥ 12-108-3(68987)
यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः।
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर॥ 12-108-4(68988)
न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत्।
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः॥ 12-108-5(68989)
एत एव त्रयो लोका एत एवाश्रमास्त्रयः।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः॥ 12-108-6(68990)
पितावै गार्हपत्योऽग्निर्माताऽग्निर्दक्षणः स्मृतः।
गुरु वनीयस्तु साऽग्नित्रेता गरीयसी॥ 12-108-7(68991)
त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकानपि जेष्यसि।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्॥ 12-108-8(68992)
ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि।
स--गेतेषु वर्तस्व त्रिषु लोकेषु भारत॥ 12-108-9(68993)
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्।
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः॥ 12-108-10(68994)
हियं परिचरेश्चैव तद्वै सुकृतमुत्तमम्।
कीर्ति पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप॥ 12-108-11(68995)
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥ 12-108-12(68996)
न चायं न परो लोको न यशस्तस्य भारत।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः॥ 12-108-13(68997)
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते।
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम्॥ 12-108-14(68998)
तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम्।
तदासीन्मे शतगुणं सहस्रगुणमेव च।
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर॥ 12-108-15(68999)
दशैव तु सदाऽऽचार्यः श्रोत्रियानधितिष्ठति।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश॥ 12-108-16(69000)
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि।
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः॥ 12-108-17(69001)
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः।
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः॥ 12-108-18(69002)
शरीरमेतौ सृजतः पिता माता च भारत।
आचार्यशिष्टा या जातिः सासम्यगजरामरा॥ 12-108-19(69003)
अवध्या हि सदा माता पिता चाप्युपचारिणौ॥ 12-108-20(69004)
न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम्।
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः॥ 12-108-21(69005)
य आवृणोत्यवितथेन कर्मणा
ऋतं ब्रुवन्नमृतं संप्रयच्छन्।
तं मन्येथाः पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन्॥ 12-108-22(69006)
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते
प्रत्युत्पन्ना मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं
नान्यस्तेभ्यः पापकृदस्ति लोके।
यथैव ते गुरुभिर्भावनीया
स्तथैव तेषां गुरवोऽभ्यर्चनीयाः॥ 12-108-23(69007)
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः।
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता॥ 12-108-24(69008)
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः।
प्रीणाति जननीयेन पृथिवी तेन पूजिता॥ 12-108-25(69009)
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम्।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः॥ 12-108-26(69010)
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः॥ 12-108-27(69011)
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्।
न च माता न च पितो तादृशो यादृशो गुरुः॥ 12-108-28(69012)
न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम्।
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः॥ 12-108-29(69013)
उपाध्यायं पितरं मातरं च
ये विद्रुह्यन्ते मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं
तस्मान्नान्यः पापकृदस्ति लोके॥ 12-108-30(69014)
भृतो भर्तारं यो न विभिर्ति पुत्रः
स्वयोनिजः पितरं मातरं च।
तस्य पापं भ्रूणहत्याविषिष्टं
तस्मान्नान्यः पापकृदस्ति लोके॥ 12-108-31(69015)
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च।
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम्॥ 12-108-32(69016)
एतत्सर्वं मनुनिर्देशदृष्टं
यत्कर्तव्यं पुरुषेणेह किंचित्।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं
सर्वान्धर्माननुसृत्यैतदुक्तम्॥ ॥ 12-108-33(69017)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाधिकशततमोऽध्यायः॥ 108॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-108-8 वृत्त्या पूज्या॥ 12-108-21 तत् वध्यानामपि तेषां अवधं कृत्वा। ते आराधिनोऽपि पितृमातृगुरवः अवधेन नैनं दूषयन्ति। राज्य हि वध्यानामवधे दुष्यति तद्वन्नात्रेत्यर्थः। धर्माय दुष्टानामपि पित्रादीनां पालनाय यतमानानां यतमानान्देवा अप्यनुग्राह्यत्वेन विदुः॥ 12-108-22 आवृणोति अनुगृह्णाति। कर्मणा प्रवचनेन। ऋतं वेदम्॥ 12-108-32 स्त्रीघ्नस्य गुरुधातिनः इति झ. पाठः॥ 12-108-33 अनुसृत्यैकीकृत्य। एतत्सारभूतम्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.